संस्कृत अभ्यासः

संस्कृत अभ्यासः


अभ्यासेन परिपूर्णता प्राप्नोति । अस्य जालस्थानस्य इदमेव मुख्यं लक्ष्यम् । संस्कृत व्याकरणस्य अभ्यासस्य कृते प्रवर्तितमिदं जालस्थानम् । अत्र विद्यमानानाम् अनेकानाम् अभ्यासानां साहाय्येन छात्राः संस्कृत व्याकरणस्य परिष्कारं कुरुत ।

नामपदानि
नामपदस्य मूलरूपं प्रातिपदिकम् इत्युच्यते । सामान्यतः संस्कृतभाषायाम् एकस्य शब्दस्य सन्दर्भानुसारम् अन्त्याक्षरानुसारं लिङ्गानुसारं वचनानुसारं च विविधानि रूपाणि प्रयुज्यन्ते ।

सप्तविभक्तीनां योजनेन प्रत्येकं प्रातिपदिकस्य २१ रूपाणि भवन्ति । तान्येव शब्दरूपाणि अथवा विभक्तिरूपाणीति व्यवह्रियन्ते । सम्बोधनप्रथमा इति प्रथमाविभक्तेः एकः भागः इत्यतः सा विभक्तिः पृथक्तया न परिगण्यते ।

अष्टाध्यायी-आधारितानाम् एतेषाम् रूपाणां अभ्‍यासानां च साहाय्येन प्रातिपदिकेभ्यः नामपदानां निर्माणकार्ये परिपूर्णता प्राप्यत ।
क्रियापदानि
वाक्ये क्रियाबोधकं पदं क्रियापदम् इत्युच्यते । क्रियापदस्य मूलरूपं धातुः वर्तते । प्रत्येकं धातुना बहूनि क्रियापदानि निर्मितानि । एतानि धातुरूपाणि इत्युच्यन्ते ।

संस्कृत धातवः दश गणेषु विभक्‍ता: सन्ति । संस्कृतभाषायां धातुरूपाणां त्रयः पुरुषाः, त्रीनि पदानि, त्रिविधाः प्रयोगाः, त्रीनि वचनानि, विभिन्नकालस्य अर्थस्य च दश लकाराः भवन्ति ।

अष्टाध्यायी-आधारितानाम् एतेषां रूपाणां अभ्‍यासानां च साहाय्येन धातुभ्यः क्रियापदानां निर्माणकार्ये परिपूर्णता प्राप्यत ।
सर्वनामानि
सर्वेषां यानि नामानि तानि सर्वनामानि । संस्कृतभाषायां "सर्वादीनि सर्वनामानि" इति सूत्रं भवति । इति सूत्रेण सर्वादिगणे विद्यमानाः सर्व, विश्व, उभ इत्यादिः सर्वनामसंज्ञकाः भवन्ति ।

नामपदस्य सदृशं सर्वनामस्य मूलरूपम् अपि प्रातिपदिकं भवति । प्रत्येकं सर्वनामस्य प्रातिपदिकस्य अपि २१ रूपाणि भवन्ति ।

अष्टाध्यायी-आधारितानाम् एतेषाम् रूपाणां अभ्‍यासानां च साहाय्येन प्रातिपदिकेभ्यः सर्वनामानां निर्माणकार्ये परिपूर्णता प्राप्यत ।
कृत् प्रत्ययाः
धातो: प्रातिपदिकात्‌ च परं य: युज्यते स: प्रत्यय: कथ्यते । धातूनां संयोज्यमानाः प्रत्ययाः एव कृत् प्रत्ययाः । यस्य पदस्य अन्ते कृत् प्रत्ययः भवति तत् पदं कृदन्तम्।

अत्र धातुभ्यः कृत् प्रत्ययानां संयोगेन निर्मितानां कृदन्तानाम् अभ्यासाः कुरुत ।
तद्धित् प्रत्ययाः
धातो: प्रातिपदिकात्‌ च परं य: युज्यते स: प्रत्यय: कथ्यते । प्रातिपदिकानां संयोज्यमानाः प्रत्ययाः एव तद्धित् प्रत्ययाः । यस्य पदस्य अन्ते तद्धित् प्रत्ययः भवति तत् पदं तद्धितान्तम्।

अत्र प्रातिपदिकेभ्यः तद्धित् प्रत्ययानां संयोगेन निर्मितानां तद्धितान्तानाम् अभ्यासाः कुरुत ।
सङ्ख्यापदानि
संस्कृतभाषायाम् सङ्ख्यापदानि केवलम् नामपदानां भागाः भवन्ति । अत्र केवलम् सौकर्यस्य कृते एतानि सङ्ख्यापदानि पृथक्तया वर्गीकृतानि ।

अष्टाध्यायी-आधारितानाम् एतेषाम् रूपाणां अभ्‍यासानां च साहाय्येन प्रातिपदिकेभ्यः सङ्ख्यापदानां निर्माणकार्ये परिपूर्णता प्राप्यत ।